|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.165. अध्यायः 165
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति तत्वसृष्टिप्रतिपादकरुद्रसनत्कुमारसंवादानुवादः॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Text
युधिष्ठिर उवाच।
पितामहेन कथिता दानधर्माश्रिताः कथाः।
मया श्रुता ऋषीणां तु संनिधौ केशवस्य च॥ 13-165-1(88017)
पुनः कौतूहलमभूत्तामेवाध्यात्मिकीं प्रति।
कथाः कथय राजेन्द्र त्वदन्यः क उदाहरेत्॥ 13-165-2(88018)
एष यादवदायादस्तथानुज्ञातुमर्हति।
ज्ञाते तु यस्मिञ्ज्ञातव्यं ज्ञातं भवति भारत॥ 13-165-3(88019)
पश्चाच्छ्रोष्यामहे राज्ञां श्राव्यान्धर्मान्पितामह।
कौतूहलमृषीणां तु च्छेतुमर्हसि साम्प्रतम्॥ 13-165-4(88020)
भीष्म उवाच। 13-165-5x(7370)
अत ऊर्ध्वं महाराज साङ्ख्ययोगोभयशास्त्राधि-
गतयाथात्म्यदर्शनसम्पन्नयोराचार्ययोः संवादमनुव्याख्यास्यामः॥ 13-165-5(88021)
तद्यथा भगवन्तं सनत्कुमारमासीनमङ्गुष्ठपर्व-
मात्रं महति विमानवरे योजनसहस्रमण्डले तरुण-
भास्करप्रतीकाशे शयनीये महति बद्धासनमनु-
ध्यायन्तममृतमनावर्तकरममूर्तमक्षयजमथोपदि-
ष्टमुपससर्प भगवन्तमाचार्यं भगवानाचार्यो रुद्रः॥ 13-165-6(88022)
तं प्रोवाच स्वागतं महेश्वर ब्रह्मसुत एतदास-
नमास्तां भगवान्॥ 13-165-7(88023)
इत्युक्ते चासीनो भगवाननन्तरूपो रुद्रस्तं
प्रोवाच भगवानपि ध्यानमावर्तयति। इत्युक्ते चाह
भगवान्सनत्कुमारस्तथेति॥ 13-165-8(88024)
तथेत्युक्तश्च प्रोवाच भगवाञ्शङ्करस्तदा।
परावरज्ञं सर्वस्य त्रैलोक्यस्य महामुनिम्॥ 13-165-9(88025)
किं वा ध्यानेन द्रष्टव्यं यद्भवाननुपश्यति।
यच्च ध्यात्वा न शोचन्ति यतयस्तत्वदर्शिनः॥ 13-165-10(88026)
कथय त्वमिमं देवं देहिनां यतिसत्तम।
यच्च तत्पुरुषं शुद्धमित्युक्तं योगसाङ्ख्ययोः॥ 13-165-11(88027)
किमध्यात्माधिभूतं च तथा चाप्यधिदैवतम्।
कालसङ्ख्या च का देव द्रष्टव्या तस्य ब्रह्मणः॥ 13-165-12(88028)
सङ्ख्या सङ्ख्यादनस्यैव या प्रोक्ता परमर्षिभिः।
शास्त्रदृष्टेन मार्गेण यथावद्यतिसत्तम॥ 13-165-13(88029)
यच्च तत्पुरुषं शुद्धं प्रबुद्धमजरं ध्रुवम्।
बुध्यमानाप्रबुद्धाभ्यां विद्यावेद्यं तथैव च॥ 13-165-14(88030)
विमोक्षं त्रिविधं चैव ब्रूहि मोक्षविदांवर।
परिसाङ्ख्यं च साङ्ख्यानां ध्यानं योगेषु चार्थवत्॥ 13-165-15(88031)
एकत्वदर्शनं चैव तथा नानात्वदर्शनम्।
अरिष्टानि च तत्वेन तथैवोत्क्रमणानि च॥ 13-165-16(88032)
दैवतानि च सर्वाणि निखिलेनानुपूर्वशः।
यान्याश्रितानि देहेषु देहिनां यतिसत्तम।
सर्वमेतद्यथातत्वमाख्याहि मुनिसत्तम॥ 13-165-17(88033)
श्रेष्ठो भवान्हि सर्वेषां ब्रह्मज्ञानामनिन्दितः।
चतुर्थस्त्वं त्रयाणां तु ये गताःइ परमां गतिम्।
ज्ञानेन च प्राकृतेन निर्मुक्तो मृत्युबन्धनात्॥ 13-165-18(88034)
वयं तु वैकृतं मार्गमाश्रिता वै क्षरं सदा।
परमुत्सृज्य पन्थानममृताक्षरमेव तु॥ 13-165-19(88035)
न्यूने पथि निमग्नास्तु ऐश्वर्येऽष्टगुणे तथा।
महिमानं प्रगृह्येमं विचरामो यथासुखम्॥ 13-165-20(88036)
न चैतत्सुखमत्यन्तं न्यूनमेतदनन्तरम्।
मूर्तिमत्परमेतत्स्यादिदमेवं सुसत्तम॥ 13-165-21(88037)
पुनः पुनश्च पतनं मूर्तिमत्युपदिश्यते।
न पुनर्मृत्युमित्यन्यं निर्मुक्तानां तु मूर्तितः॥ 13-165-22(88038)
मृत्युदोषास्त्वनन्ता वै उत्पद्यन्ते कृतात्मनाम्।
मर्त्येषु नाकपृष्ठेषु निरयेषु महामुने॥ 13-165-23(88039)
तत्र मञ्जन्ति पुरुषाः सुखदुःखेन वेष्टिताः॥ 13-165-24(88040)
सुखदुःखव्यपेतं च यदाहुरमृतं पदम्।
तदहं श्रोतुमिच्छामि यथावच्छ्रुतिदर्शनात्॥ 13-165-25(88041)
सनत्कुमार उवाच। 13-165-26x(7371)
यदुक्तं भवता वाक्यं तत्वसंज्ञेति देहिनाम्।
चतुर्विंशतिमेवात्र केचिदाहुर्मनीषिणः॥ 13-165-26(88042)
केचिदाहुस्त्रयोविंशं यथाश्रुतिनिदर्शनात्।
वयं तु पञ्चविंशं वै तदधिष्ठानसंज्ञितम्।
तत्वं समधिमन्यामः सर्वतन्त्रप्रलापनात्॥ 13-165-27(88043)
अव्ययश्चैव वै व्यक्तावुभावपि पिनाकधृक्।
सह चैव विना चैव तावन्योन्यं प्रतिष्ठितौ॥ 13-165-28(88044)
हिरण्मयीं प्रविश्यैष मूर्तिं मूर्तिमतांवर।
चकार पुरुषस्तात विकारपुरुषावुभौ॥ 13-165-29(88045)
अव्यक्तादेक एवैष महानात्मा प्रसूयते।
अहङ्कारेण लोकांश्च व्याप्य चाहंकृतेन वै॥ 13-165-30(88046)
पिना सर्वं तदव्यक्तादभफिमन्यस्व शूलधृक्।
भूतसर्गमहङ्कारात्तृतीयं विद्धि वै क्रमात्॥ 13-165-31(88047)
अहङ्काराच्च भूतेषु चतुर्थं विद्दि वैकृतम्।
अहङ्काराच्च जातानि युगपद्विबुधेश्वर॥ 13-165-32(88048)
सविशेषाणि भूतानि पञ्च प्राहुर्मनीषिणः।
चतुर्विंशात्तु वै प्रोक्तात्पञ्चविंशोऽधितिष्ठति॥ 13-165-33(88049)
एते सर्गा मया प्रोक्ताश्चत्वारः प्राकृतास्त्विह।
अहङ्काराच्च जातानि युगपद्विबुधेश्वर॥ 13-165-34(88050)
अङ्काराच्च भूतेषु विविधार्थं व्यजायत।
इन्द्रियैर्युगपत्सर्वैः सो नित्यश्च समीक्षते॥ 13-165-35(88051)
मरुत्त्वं सत्वसर्गश्च तुष्टिः सिद्धिस्तथैव च।
वैकृतानि प्रवक्ष्यामि शृणु तानि महामते॥ 13-165-36(88052)
एषा तत्वचतुर्विंशन्मया शास्त्रानुमानतः।
वर्णिता तव देवेश पञ्चविंशत्समन्विता॥ 13-165-37(88053)
पञ्चमोऽनुग्रहश्चैव नवैते प्राकृतैः सह।
ऐन्द्रेप्यहमधोप्यन्यन्ममात्मनि च भास्वरः॥ 13-165-38(88054)
यच्च देहमयं किञ्चित्त्रिषु लोकेषु विद्यते।
सर्वत्रैवाभिमन्तव्यं त्वया त्रिपुरसूदन॥ 13-165-39(88055)
अन्यथा येऽनुपश्यन्ति ते न पश्यन्ति ब्रह्मज।
एतदव्यक्तविषयं पञ्चविंशसमन्वितम्॥ 13-165-40(88056)
अनेन कारणेनैव तत्वमाहुर्मनीषिणः।
विकारमात्रमेतं तु तत्वमाचक्षते परम्॥ 13-165-41(88057)
निस्तत्वश्चैष देवेश बोद्धव्यं तु न बुद्ध्यते।
यदि बुद्ध्येत्परं बुद्धं बुद्ध्यमानः सुरर्षभः।
प्रबुद्धो ह्यभिमन्येत योयं नाहमिति प्रभो॥ ॥ 13-165-42(88058)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि पञ्चषष्ट्यधिकशततमोऽध्यायः॥ 165 ॥
Mahabharata - Anushaasana Parva - Chapter Footnotes
7-165-1x एतदादिपञ्चाध्याया दाक्षिणात्यकोशेष्वेव दृश्यन्ते॥ 7-165-13 यथावद्वद सत्तमेति ङ.पाठः॥ 7-165-36 मम त्वं सत्त्वसर्गश्चेति ध.पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|